यह ब्लॉग खोजें

मंगलवार, 11 जनवरी 2022

#हनुमद्ध्यानम्

#हनुमद्ध्यानम्




 नमस्ते देवदेवेश नमस्ते राक्षसान्तक ।
नमस्ते वानराधीश नमस्ते वायुनन्दन ॥ १॥
नमस्त्रिमूर्तिवपुषे वेदवेद्याय ते नमः ।
रेवानदी विहाराय सहस्रभुजधारिणे ॥ २॥
सहस्रवनितालोल कपिरूपाय ते नमः ।
दशाननवधार्थाय पञ्चाननधराय च ॥ ३॥
सुवर्चलाकलत्राय तस्मै हनुमते नमः ।
कर्कटीवधवेलायां षडाननधराय च ॥ ४॥
सर्वलोकहितार्थाय वायुपुत्राय ते नमः ।
रामाङ्कमुद्राधराय ब्रह्मलोकनिवासिने ॥ ५॥
विंशद्भुजसमेताय तस्मै रुद्रात्मने नमः ।
सर्वस्वतन्त्रदेवाय नानायुधधराय च ॥ ६॥
दिव्यमङ्गलरूपाय हनूमद्ब्रह्मणे नमः ।
दुर्दण्डिबन्धमोक्षाय कालनेमिहराय च ॥ ७॥
मैरावणविनाशाय वज्रदेहाय ते नमः ।
सर्वलोकप्रपूर्णाय भक्तानां हृन्निवासिने ॥ ८॥
आर्तानां रक्षणार्थाय वेदवेद्याय ते नमः ।
सर्वमन्त्रस्वरूपाय सृष्टिस्थित्यन्तहेतवे ॥ ९॥
नानावर्णधरायास्तु पापनाशय ते नमः ।
गङ्गातीरे विप्रमुख कपिलानुग्रहेच्छया ॥ १०॥
चतुर्भुजावताराय भविष्यद्ब्रह्मणे नमः ।
कौपीनकटिसूत्राय दिव्ययज्ञोपवीतिने ॥ ११॥

पीताम्बरधरायास्तु कालरूपाय ते नमः ।
यज्ञकर्त्रे यज्ञभोक्त्रे नानाविद्याविहारिणे ॥ १२॥
त्रिमूर्तितेजोवपुषे दिव्यरूपाय ते नमः ।
कदलीफलहस्ताय हेमरम्भाविहारिणे ॥ १३॥
भक्तध्यानावसन्ताय सर्वभूतात्मने नमः ।
वल्लरीधार्ययुक्ताय सहस्राश्वरथाय च ॥ १४॥
गुण्डक्रियागीतगानचतुराय नमो नमः ।
पञ्चाशद्वर्णरूपाय सूक्ष्मरूपाय विष्णवे ॥ १५॥
नरवानरवेषाय बहुरूपाय ते नमः ।
लङ्किणीवशवेलायामष्टादशभुजात्मने ॥ १६॥
ध्वजदत्तप्रपन्नाय अग्निगर्भाय ते नमः ।
उष्ट्रारोहविराराय पार्वतीनन्दनाय च ॥ १७॥
वज्रप्रहारचिह्नाय तस्मै सर्वात्मने नमः ।
पम्पातीरविहाराय केसरीनन्दनाय च ।
तप्तकाञ्चनवर्णाय वीररूपाय ते नमः ॥ १८॥

शक्तिं पाशं च कुन्तं परशुमपि हलं तोमरं खेटकं च
शङ्खं चक्रं त्रिशूलं मुसलमपि गदां पट्टसं मुद्गरं च ।
गाण्डीवं चारुपद्मं द्विनवभुजवरे खड्गमप्याददानं
वन्देऽहं वायुसूनुं सुररिपुमथनं भक्तरक्षाधुरीणम् ॥ १९॥
इति श्रीहनुमद्ध्यानं समाप्तम् ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

टिप्पणी करें

टिप्पणी: केवल इस ब्लॉग का सदस्य टिप्पणी भेज सकता है.

function disabled

Old Post from Sanwariya